लोकालोकः

सुधाव्याख्या

लोकेति । 'लोकृ दर्शने’ (भ्वा० आ० से०) । भावे घञ् (३.३.१३) । न लोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । अन्तर्बहिः सूर्यकिरणानां स्पर्शास्पर्शाभ्याम् ॥


प्रक्रिया

धातुः - लोकृँ दर्शने


लोक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोक् + घञ् - भावे 3.3.18
लोक् + अ हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नञ् + लोक + सु - नञ्‌ 2.2.6
नञ् + लोक - सुपो धातुप्रातिपदिकयोः 2.4.71
न + लोक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अलोक - नलोपो नञः 6.3.73
लोक + सु + अलोक + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
लोक + अलोक - सुपो धातुप्रातिपदिकयोः 2.4.71
लोकालोक - अकः सवर्णे दीर्घः 6.1.101
लोकालोक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लोकालोक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोकालोक + रु - ससजुषो रुः 8.2.66
लोकालोक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोकालोकः - खरवसानयोर्विसर्जनीयः 8.3.15