अस्तः

सुधाव्याख्या

अस्त इति । असति स्म । ‘अस दीप्तौ' (भ्वा० उ० से०) । गत्यर्था-' (३.४.७२) इति क्तः । यद्वा अस्यते स्म । असु क्षेपणे' (दि० प० से०) । क्तः (३.४.७२) । ‘अस्तं क्षिप्तेऽप्यवसिते त्रिषु, ना पश्चिमाचले' इति विश्वमेदिन्यौ ॥