अमरकोशः


श्लोकः

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेटिका । तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्वार् द्वाः स्त्रीलिङ्गः द्वारयति । विच् कृत् रेफान्तः
2 द्वार द्वारम् नपुंसकलिङ्गः अच् कृत् अकारान्तः
3 प्रतीहार प्रतीहारः पुंलिङ्गः प्रतिहियते आव्रियते । घञ् कृत् अकारान्तः
4 वितर्दि वितर्दिः स्त्रीलिङ्गः विगता तर्दिर्हिंसाऽस्याः । इन् उणादिः इकारान्तः
5 वेदिका वेदिका स्त्रीलिङ्गः विदन्त्यस्याम् । इन् उणादिः आकारान्तः
6 तोरण तोरणम् पुंलिङ्गः, नपुंसकलिङ्गः तुरन्त्यत्र । ल्युट् कृत् अकारान्तः
7 बहिर्द्वार बहिर्द्वारम् नपुंसकलिङ्गः अकारान्तः
8 पुरद्वार पुरद्वारम् नपुंसकलिङ्गः पुरस्य द्वारम् ॥ तत्पुरुषः समासः अकारान्तः
9 गोपुर गोपुरम् नपुंसकलिङ्गः गोपायति । उरच् बाहुलकात् अकारान्तः