गोपुरम्

सुधाव्याख्या

गोपायति । गुपू रक्षणे' (भ्वा० प० से०) । बाहुलकादुरच् । यद्वा पोलति । पुल महत्त्वे’ (भ्वा० प० से०) । इगुपधत्वात्कः (३.१.१३५) ॥ रलयोरभेदः । गोभिः पुरम् । गाः पुरति । ‘पुर अग्रगमने' (तु० प० से०) । ण्यर्थः । 'मूलविभुजा- (वा० ३.२.५) इति कः ॥