वेदिका

सुधाव्याख्या

विदन्त्यस्याम् । इन्नन्तात् कृदिकारात्-' (ग० ४.१.४५) इति वा ङीष् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - विदँ ज्ञाने


विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद् + इन् - सर्वधातुभ्य इन् (४.११७) । उणादिसूत्रम् ।
विद् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेद् + इ - पुगन्तलघूपधस्य च 7.3.86
वेदि + सु + कन् - संज्ञायां कन् 5.3.75
वेदि + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
वेदिक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेदिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वेदिक + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेदिका - अकः सवर्णे दीर्घः 6.1.101
वेदिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वेदिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेदिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68