अमरकोशः


श्लोकः

गोपानसी तु वलभी छादने वक्रदारुणि । कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोपानसी गोपानसी स्त्रीलिङ्गः नसट् बाहुलकात् ईकारान्तः
2 वलभी वलभी स्त्रीलिङ्गः वलति । अभच् बाहुलकात् ईकारान्तः
3 कपोतपालिका कपोतपालिका स्त्रीलिङ्गः कपोतानां पालिका । ण्वुल् कृत् आकारान्तः
4 विटङ्क विटङ्कम् पुंलिङ्गः, नपुंसकलिङ्गः विशेषेण टङ्क्यन्तेऽत्र । घञ् कृत् अकारान्तः