कपोतपालिका

सुधाव्याख्या

कपोतेति । पालयति । ‘पाल रक्षणे' (चु० प० से०) । ण्वुल् (३.१.१३३) । कपोतानां पालिका । कपोतान्पालयति कर्मण्यण् (३.२.१) । ङीप् (४.१.१५) । ‘संज्ञायां कन् (५.३.७५) इति वा ॥


प्रक्रिया

धातुः - पालँ रक्षणे


पाल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाल् + ण्वुल् - ण्वुल्तृचौ 3.1.133
पाल् + वु - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पाल् + अक - युवोरनाकौ 7.1.1
पालक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पालक + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पालका - अकः सवर्णे दीर्घः 6.1.101
पालिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
कपोत + आम् + पालिका + सु - षष्ठी 2.2.8
कपोत + पालिका - सुपो धातुप्रातिपदिकयोः 2.4.71
कपोतपालिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कपोतपालिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपोतपालिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68