वलभी

सुधाव्याख्या

वलति । ‘वल संवरणे’ (भ्वा० प० से०) । बाहुलकादभच् । गौरादिः । ‘शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि’ इति रभसः ॥ वक्राणि दारूणि यस्मिन् ।