गोपानसी

सुधाव्याख्या

गोपेति । ‘गोपायति । ‘गुपू रक्षणे’ (भ्वा० प० से०) बाहुलकान्नसट् प्रत्ययः । अल्लोप (६.४.४८) यलोपौ (६.१.६६) । यद्वा गवां गोभिर्वा पानं गोपानं किरणानां किरणैर्वा शोषणम् । तत् स्यति निवर्तयति । ’षो अन्तकर्मणि’ (दि० प० अ०) । 'आतोऽनुप्-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥


प्रक्रिया