अमरकोशः


श्लोकः

सूर्मी स्थूणाय:प्रतिमा शिल्पं कर्म कलादिकम् । प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सूर्मी सूर्मी स्त्रीलिङ्गः शोभना ऊर्मिः । तत्पुरुषः समासः ईकारान्तः
2 स्थूणा स्थूणा स्त्रीलिङ्गः तिष्ठति । उणादिः आकारान्तः
3 अयःप्रतिमा अयःप्रतिमा स्त्रीलिङ्गः अयसः प्रतिमा ॥ तत्पुरुषः समासः आकारान्तः
4 शिल्प शिल्पम् नपुंसकलिङ्गः शील्यते । उणादिः अकारान्तः
5 प्रतिमान प्रतिमानम् नपुंसकलिङ्गः प्रतिकृत्य मीयतेऽनेन । ल्युट् कृत् अकारान्तः
6 प्रतिबिम्ब प्रतिबिम्बम् नपुंसकलिङ्गः प्रतिकृतिर्बिम्बं यस्य । तत्पुरुषः समासः अकारान्तः
7 प्रतिमा प्रतिमा स्त्रीलिङ्गः प्रतिमीयतेऽनया । अङ् कृत् आकारान्तः
8 प्रतियातना प्रतियातना स्त्रीलिङ्गः प्रतियात्यतेऽनया । युच् कृत् आकारान्तः
9 प्रतिच्छाया प्रतिच्छाया स्त्रीलिङ्गः प्रकृष्टा छाया ॥ तत्पुरुषः समासः आकारान्तः