शिल्पम्

सुधाव्याख्या

- शीति । शील्यते । ‘शील समाधौं' (भ्वा० प० से०) । शल्यते वा । ‘शल गती' (भ्वा० प० से०) । ‘खष्पशिल्प-’ (उ० ३.२८) इति साधुः । ‘शिल्पं स्रुवे क्रियादिके' इति विश्वः (हैमः) ॥ कला नृत्यगीतादिरूपा चतुःषष्टिभेदभिन्ना । आदिना सुवर्णकारादिकर्मग्रहः ।


प्रक्रिया

धातुः -


शीलँ समाधौ
शिल्पम् – उणादिसूत्रम् । ३.२८