स्थूणः

सुधाव्याख्या

- तिष्ठति । ‘ष्ठा गतिनिवृत्तौ' (स्वा० प० अ०) । ‘रास्नासास्नास्थूणा (उ० ३.१५) इति साधुः । ‘स्थूणा सूर्यो सूर्म्यां रुगन्तरे' इति हैमः ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
स्थूण – उणादिसूत्रम् । ३.१५
स्थूण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्थूण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्थूण + रु - ससजुषो रुः 8.2.66
स्थूण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्थूणः - खरवसानयोर्विसर्जनीयः 8.3.15