अमरकोशः


श्लोकः

नाराची स्यादेषणिका शाणस्तु निकष: कषः । वृश्चनः पत्रपरशुरेषिका तूलिका समे ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नाराची नाराची स्त्रीलिङ्गः स्वल्पो नाराचो बाणभेदः । ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 एषणिका एषणिका स्त्रीलिङ्गः इष्यतेऽनया । ल्युट् कृत् आकारान्तः
3 शाण शाणः पुंलिङ्गः शण्यते । घञ् कृत् अकारान्तः
4 निकष निकषः पुंलिङ्गः निकषति । अच् कृत् अकारान्तः
5 कष कषः पुंलिङ्गः निकषति । अच् कृत् अकारान्तः
6 वृश्चन वृश्चनः पुंलिङ्गः वृश्चतेऽनेन । ल्युट् कृत् अकारान्तः
7 पत्रपरशु पत्रपरशुः पुंलिङ्गः पत्त्रमिव परशुः ॥ तत्पुरुषः समासः उकारान्तः
8 एषिका एषिका स्त्रीलिङ्गः इष्यते । वुन् उणादिः आकारान्तः
9 तूलिका तूलिका स्त्रीलिङ्गः तूलति । क्वुन् उणादिः आकारान्तः