कषः

सुधाव्याख्या

- निकषति । ‘कष हिंसायाम्' (भ्वा० प० से०) । अच् (३.१.१३४) ।-निकष्यतेऽत्र । ‘गोचर-' (३.३.११९) इत्यादिना घः–इति मुकुटश्चिन्त्यः । तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । ‘निकषः शाणफलके (निकषा यातुमातरि)' इति विश्वमेदिन्यौ ॥