शाणः

सुधाव्याख्या

- शेति । शण्यते । ‘शण दाने' (भ्वा० प० से०) । ‘अकर्तरि-' (३.३.१९) इति घञ् । श्यति वा । ‘शो तनूकरणे' (दि० प० अ०) । बाहुलकाण्णः । ‘पुंसि स्यात्, शाणो मासचतुष्टये । लोहादीनां च निकषे शाणी प्रावरणान्तरे' (इति मेदिनी) ॥