अमरकोशः


श्लोकः

नध्री वर्ध्री वरत्रा स्यादश्वादेस्ताडनी कशा । चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नद्ध्री नद्ध्री स्त्रीलिङ्गः नह्यतेऽनया । ष्ट्रन् कृत् ईकारान्तः
2 वर्ध्री वर्ध्री स्त्रीलिङ्गः वर्धते । रन् उणादिः ईकारान्तः
3 वरत्रा वरत्रा स्त्रीलिङ्गः व्रियतेऽनया । अत्रन् उणादिः आकारान्तः
4 कशा कशा स्त्रीलिङ्गः ताड्यतेऽनया । अच् कृत् आकारान्तः
5 चाण्डालिका चाण्डालिका स्त्रीलिङ्गः चण्डालस्येयम् । अण् तद्धितः आकारान्तः
6 कण्डोलवीणा कण्डोलवीणा स्त्रीलिङ्गः कण्डोलस्य चण्डालस्य वीणा । तत्पुरुषः समासः आकारान्तः
7 चण्डालवल्लकी चण्डालवल्लकी स्त्रीलिङ्गः चण्डालस्य वल्लकी ॥ तत्पुरुषः समासः ईकारान्तः