कण्डोलवीणा

सुधाव्याख्या

- कण्डते । ‘कडि मदे' (भ्वा० प० से०) । बाहुलकादोलच्-‘कडिकपि-'-इति मुकुटस्त्वपाणिनीयः । कण्डोलस्य चण्डालस्य वीणा । ‘कटोलवीणा' इति पाठे तु कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) ‘कपिगडि-’ । (उ० १.६६) इत्योलच् ॥