चाण्डालिका

सुधाव्याख्या

- चेति । चण्डालस्येयम् । ‘तस्येदम्' (४.३.१२०) इत्यण् । ‘टिड्ढ्वा-' (४.१.१५) इति ङीप् । स्वार्थे कन् (ज्ञापि० ५.४.५) चण्डालेन कृता वा । ‘कुलालादिभ्यो वुञ्’ (४.३.११८) चाण्डालिका किंनरायामुमायामोषधीभिदि’ (इति मेदिनी) ॥