अमरकोशः


श्लोकः

पुंसि वेमा वापदण्डः सूत्राणि नरि तन्तवः । वाणिर्व्यूति स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वेमन् वेमा पुंलिङ्गः, नपुंसकलिङ्गः वयत्यनेन । मनिन् उणादिः नकारान्तः
2 वापदण्ड वापदण्डः पुंलिङ्गः वापस्य दण्डः तत्पुरुषः समासः अकारान्तः
3 सूत्र सूत्रम् नपुंसकलिङ्गः सूत्र्यते । अच् कृत् अकारान्तः
4 तन्तु तन्तुः पुंलिङ्गः तन्यते । तुन् उणादिः उकारान्तः
5 वाणि वाणिः स्त्रीलिङ्गः वाणनम् । उणादिः इकारान्तः
6 व्यूति व्यूतिः स्त्रीलिङ्गः विशिष्टा ऊतिः । क्तिन् कृत् इकारान्तः
7 पुस्त पुस्तम् नपुंसकलिङ्गः पुस्त्यते । अच् कृत् अकारान्तः