वापदण्डः

सुधाव्याख्या

- वपनम् । ‘डुवप्’ (भ्वा० उ० अ०) । घञ् (३.३.१८) । वापस्य दण्डः । ‘वायदण्डः' इति क्वचित् पाठः । तत्र वेजो भावे घञ् । ‘आतो युक्’ (७.३.३३) । वायस्य दण्डः ॥