पुस्तम्

सुधाव्याख्या

- प्विति । पुस्त्यते । ‘पुस्त आदरादौ' (चु० प० से०) णिच् । ‘एरच्’ (३.३.५६) ॥‘मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते । लेप्यमादिर्यस्य । तच्च तत्कर्म च । आदिना काष्ठपुत्तलिकादि ।