अमरकोशः


श्लोकः

शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । आचाण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शूद्र शूद्राः पुंलिङ्गः शोचति । रक् उणादिः अकारान्तः
2 अवरवर्ण अवरवर्णाः पुंलिङ्गः अवरोऽधमो वर्णोऽस्य । बहुव्रीहिः समासः अकारान्तः
3 वृषल वृषलाः पुंलिङ्गः वृष्यते, वर्षति वा । कलच् उणादिः अकारान्तः
4 जघन्यज जघन्यजाः पुंलिङ्गः जघन्यात् पादाज्जाताः । कृत् अकारान्तः
5 संकीर्ण संकीर्णाः पुंलिङ्गः सङ्कीर्यते स्म । क्त कृत् अकारान्तः