वृषलाः

सुधाव्याख्या

- वृष्यते, वर्षति वा । ‘वृषु सेचने' (भ्वा० प० से०) । ‘वृषादिभ्यश्च' (उ० १.१०६ ) इति कलच् । वृषं धर्मं लुनाति वा । ‘लूञ् छेदने’ (क्र्या० उ० से० ) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०) इति डः । वृषं लाति वा । कः (३.२.३) ॥


प्रक्रिया

धातुः -


वृषुँ सेचने
वृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृष् + कलच् – उणादिसूत्रम् । १.१०६
वृष् + अल - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वृषलाः