जघन्यजाः

सुधाव्याख्या

- जघन्यात् पादाज्जाताः । ‘जनी प्रादुर्भावे' (दि० आ० से०) । ‘पञ्चम्याम्-' (३.२.९८) इति डः । ‘जघन्यं मेहने क्लीबे चरमे गर्हितेऽन्यवत्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


जनीँ प्रादुर्भावे
जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जघन्य + ङसि + जन् + ड - पञ्चम्यामजातौ 3.2.98
जघन्य + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
जघन्य + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
जघन्य + ज् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
जघन्यजाः