अमरकोशः


श्लोकः

मध्वासको माधवको मधु मार्द्वीकमद्वयोः । मैरेयमासवः शीधुः मेदको जगल: समौ ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मध्वासव मध्वासवः पुंलिङ्गः मधुकपुष्पं मधु । तस्यासवः ॥ तत्पुरुषः समासः अकारान्तः
2 माधवक माधवकः पुंलिङ्गः मधुना कृतः सन्धितः । वुञ् तद्धितः अकारान्तः
3 मधु मधुम् नपुंसकलिङ्गः मन्यते । उणादिः उकारान्तः
4 मार्द्वीक मार्द्वीकम् नपुंसकलिङ्गः मृद्वीका द्राक्षा । तस्या विकारः । अण् तद्धितः अकारान्तः
5 मैरेय मैरेयम् नपुंसकलिङ्गः मिरायां देशविशेषे ओषधीविशेषे वा भवम् । ढक् तद्धितः अकारान्तः
6 असव असवः पुंलिङ्गः आसूयते । अप् कृत् अकारान्तः
7 शीधु शीधुः पुंलिङ्गः, नपुंसकलिङ्गः शेरतेऽनेन । धुक् उणादिः उकारान्तः
8 मेदक मेदकः पुंलिङ्गः मेद्यति । वुन् उणादिः अकारान्तः
9 जगल जगलः पुंलिङ्गः भृशं गलति, गल्यते, वा । अच् कृत् अकारान्तः