शीधुः

सुधाव्याख्या

- शेरतेऽनेन । ‘शीङो धुक्-' (उ० ४.३८) । अर्धर्चादिः (२.४.३१) । ‘पुंनपुंसकयोदरुजीवातुस्थाणुशीध- वः' इति त्रिकाण्डशेषः ॥ यद्यपि ‘शीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम्’ इति माधवः । तथापि भेदमनादृत्योक्तम् ।