मार्द्वीकम्

सुधाव्याख्या

- मृद्वीका द्राक्षा । तस्या विकारः । ‘तस्य विकारः' (४.३.१३४) इत्यण् ‘अनुदात्तादेः' (४.३.१४०) इत्यञ् वा । केचित्तु–‘माध्वीकम्' इति पठन्ति । तत्र पृषोदरादित्वम् ॥


प्रक्रिया

धातुः -


मृद्वीक + अण् - तस्य विकारः 4.3.134
मुद्वीक + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृद्वीक् + अ - यस्येति च 6.4.148
मार्द्वीकम् - तद्धितेष्वचामादेः 7.2.117