अमरकोशः


श्लोकः

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊषवत् ऊषवान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊषोऽस्त्यस्मिन् । मतुप् तद्धितः तकारान्तः
2 ऊषर ऊषरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊषोऽस्त्यस्मिन् । तद्धितः अकारान्तः
3 स्थल स्थलम् नपुंसकलिङ्गः स्थलति । अच् कृत् अकारान्तः
4 स्थली स्थली स्त्रीलिङ्गः ङीष् ईकारान्तः
5 मरु मरुः पुंलिङ्गः म्रियन्तेऽस्मिन्भूतानि । उणादिः उकारान्तः
6 धन्वन् धन्वा पुंलिङ्गः धन्व्यतेऽस्मात् । कनिन् उणादिः नकारान्तः
7 खिल खिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खिलति । कृत् अकारान्तः
8 अप्रहत अप्रहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न प्रहन्यते स्म । क्त कृत् अकारान्तः