स्थलम्

सुधाव्याख्या

स्थलमिति । स्थलति । ‘ष्ठल स्थाने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यत्तु-स्थल्यतेऽत्र । घञर्थे कः’ (वा० ३.३.५८) इति मुकुट: । तन्न । परिगणनात् ।