अमरकोशः


श्लोकः

अर्जुन्याघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी । वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्जुनी अर्जुनी स्त्रीलिङ्गः अर्जुनवर्णयोगात् । ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 अघ्न्या अघ्न्या स्त्रीलिङ्गः न हन्यते, हन्ति दातारम्, वा । यक् उणादिः आकारान्तः
3 रोहिणी रोहिणी स्त्रीलिङ्गः रोहितवर्णयोगात् । ङीप् स्त्रीप्रत्ययः ईकारान्तः
4 नैचिकी नैचिकी स्त्रीलिङ्गः नीचैश्चरति । ठक् तद्धितः ईकारान्तः
5 शबली शबली स्त्रीलिङ्गः शवलयोगात् । ङीष् स्त्रीप्रत्ययः ईकारान्तः
6 धवला धवला स्त्रीलिङ्गः धवलयोगात् । टाप् स्त्रीप्रत्ययः आकारान्तः