धवला

सुधाव्याख्या

धवलयोगात् । अनुदात्तत्वाभावान्न ङीष् । मुकुटस्तु–‘धवली’–इत्याह । तत्र गौरादिङीष् (४.१.४१) ॥ आदिना ‘कृष्णा-कपिला पाटला' इत्यादयः । प्रमाणभेदात् दीर्घा ह्रस्वा खर्वा वामनी, इत्यादयः । अङ्गभेदात् पिङ्गाक्षी लम्बकर्णी वक्रशृङ्गी, इत्यादयः ‘धवलादिसंज्ञानाम्’ ॥