अर्जुनी

सुधाव्याख्या

अर्जुनवर्णयोगात् । ‘अन्यतो ङीष्’ (४.१.४०) । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि, स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदानद्यां कुट्टिन्यामपि च क्वचित्’ इति विश्वः (मेदिनी) ॥