अमरकोशः


श्लोकः

यवागूरुष्णिका श्राणा विलेपी तरला च सा । गव्यं त्रिषु गवां सर्वं गोविट् गोमयस्त्रियाम् ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यवागू यवागू स्त्रीलिङ्गः यौति, यूयते वा । आगूच् उणादिः ऊकारान्तः
2 उष्णिका उष्णिका स्त्रीलिङ्गः उष्णैव । कन् तद्धितः आकारान्तः
3 श्राणा श्राणा स्त्रीलिङ्गः श्रायते स्म । क्त कृत् आकारान्तः
4 विलेपी विलेपी स्त्रीलिङ्गः विलिम्पति । अच् कृत् ईकारान्तः
5 तरला तरला स्त्रीलिङ्गः तरणम् । कृत् आकारान्तः
6 गव्य गव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गोरिदम् । यत् तद्धितः अकारान्तः
7 गोविट् गोविट् स्त्रीलिङ्गः गोर्विट् ॥ तत्पुरुषः समासः टकारान्तः
8 गोमय गोमयः पुंलिङ्गः, नपुंसकलिङ्गः गोः पुरीषम् । मयट् तद्धितः अकारान्तः