गव्यम्

सुधाव्याख्या

गेति । गोरिदम् । ‘गोपयसोर्यत्' (४.३.१६०) । ‘वान्तो यि प्रत्यये' (६.१.७९) । ‘गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् । गोसमूहे त्रिलिङ्गं तु गोदुग्धादौ च गोहिते' इति (मेदिनी) ॥