श्राणा

सुधाव्याख्या

श्रायते स्म । ‘श्रा पाके' (अ० प० अ०) । कर्मणि क्तः (३.२.१०२) । ‘संयोगादेरातः’ (८.२.४३) इति निष्ठानत्वम् ॥