अमरकोशः


श्लोकः

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् । क्लिबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हसनी हसनी स्त्रीलिङ्गः ल्युट् कृत् ईकारान्तः
2 अङ्गार अङ्गारः पुंलिङ्गः, नपुंसकलिङ्गः अङ्गति । आरन् उणादिः अकारान्तः
3 अलात अलातम् नपुंसकलिङ्गः लानम् । तत्पुरुषः समासः अकारान्तः
4 उल्मुक उल्मुकम् नपुंसकलिङ्गः ओषति । मुक उणादिः अकारान्तः
5 अम्बरीष अम्बरीषम् नपुंसकलिङ्गः अम्ब्यतेऽत्र वा । इषन् उणादिः अकारान्तः
7 भ्राष्ट्र भ्राष्ट्रः पुंलिङ्गः भृज्ज्यतेऽत्र । ष्ट्रन् उणादिः अकारान्तः
8 कन्दु कन्दुः पुंलिङ्गः, स्त्रीलिङ्गः स्कन्दिति । कु उणादिः उकारान्तः
9 स्वेदनी स्वेदनी स्त्रीलिङ्गः स्विद्यतेऽस्मात् । ल्युट् कृत् ईकारान्तः