अङ्गारः

सुधाव्याख्या

अथेति । अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । ‘अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) । अङ्गमियर्ति वा । ‘ऋ गतौ' (जु० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘अङ्गारमुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते' इति विश्वः (मेदिनी) ॥