स्वेदनी

सुधाव्याख्या

स्विद्यतेऽस्मात् । अधिकरणे ल्युट् (३.३.११७) । -‘वा स्त्रियाम्’ इत्यन्वयात् ‘स्वेदनः’ अपि–इति मुकुटः ॥


प्रक्रिया

धातुः -


ष्विदाँ गात्रप्रक्षरणे
स्विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, धात्वादेः षः सः 6.1.64
स्विद् + ल्युट् - करणाधिकरणयोश्च 3.3.117
स्विद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्विद् + अन - युवोरनाकौ 7.1.1
स्वेद् + अन - पुगन्तलघूपधस्य च 7.3.86
स्वेदन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
स्वेदन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्वेदन् + ई - यस्येति च 6.4.148
स्वेदनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्वेदनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वेदनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D