अम्बरीषः

सुधाव्याख्या

क्लीति । अम्ब्यतेऽत्र वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । ‘अम्बरीषः’ (उ० ४.२९) इति साधुः । -‘शिरीषादयश्च -इति त्वपाणिनीयम् । ‘अम्बरीषपुरुषोषरौषधम्’ इति षभेदान्मूर्धन्यान्तोऽयम् । ‘अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुतापे च’ ‘अनिमिषो मत्स्यदेवयोः’ (इति मेदिनी) ॥