अमरकोशः


श्लोकः

आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आरनालक आरनालकम् नपुंसकलिङ्गः आरो नालोऽस्य । बहुव्रीहिः समासः अकारान्तः
2 सौवीर सौवीरम् नपुंसकलिङ्गः सुवीरेषु भवम् । अण् तद्धितः अकारान्तः
3 कुल्माषाभिषु कुल्माषाभिषुम् नपुंसकलिङ्गः कुल् अर्धस्विन्नो माषोऽस्मिन् । बहुव्रीहिः समासः उकारान्तः
4 अवन्तिसोम अवन्तिसोमम् नपुंसकलिङ्गः अवन्तिषु अभिषुतं सोमम् । तत्पुरुषः समासः अकारान्तः
5 धान्याम्ल धान्याम्लम् नपुंसकलिङ्गः धान्याभिषुतमम्लम् । तत्पुरुषः समासः अकारान्तः
6 कुञ्जल कुञ्जलम् नपुंसकलिङ्गः कुत्सितं जलम् । तत्पुरुषः समासः अकारान्तः
7 काञ्जिक काञ्जिकम् नपुंसकलिङ्गः के अञ्जिकास्य । ण्वुल् कृत् अकारान्तः