आरनालकः

सुधाव्याख्या

आरोति । आर्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । नलति । ‘णल गन्धे’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । आरो नालोऽस्य । ‘शेषाद्विभाषा’ (५.४.१५४) इति कप् ॥


प्रक्रिया

धातुः -


ऋ गतौ
आ + ऋ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
आ + ऋ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + अर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
णलँ गन्धे बन्धने च
नल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, णो नः 6.1.65
नल् + ण - ज्वलितिकसन्तेभ्यो णः 3.1.140
नल् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
नाल - अत उपधायाः 7.2.116
आर + सु + नाल + सु - अनेकमन्यपदार्थे 2.2.24
आरनाल - सुपो धातुप्रातिपदिकयोः 2.4.71
आरनाल + कप् - शेषाद्विभाषा 5.4.154
आरनाल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आरनालक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आरनालक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरनालक + रु - ससजुषो रुः 8.2.66
आरनालक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरनालकः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D