काञ्जिक

सुधाव्याख्या

‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘संज्ञायाम्’ (३.३.१०९) इति भावे ण्वुल् । ‘धात्वर्थनिर्देशे' (वा० ३.३.१०८) वा । के अञ्जिकास्य । ‘काञ्चिके' इति पाठे काञ्चयति । ‘कचि काचि दीप्तिबन्धनयोः' (भ्वा० आ० से०) । ण्यन्तः । इन् (उ० ४.११८) । ‘संज्ञायां कन्’ (५.३.७५) । ‘काञ्चिकं काञ्जिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च सुवीराम्लं तथा शुक्लं तुषोदकम्' इति धन्वन्तरिः ॥