कुल्माषम्

सुधाव्याख्या

कोलति । ‘कुल संस्त्याने' (भ्वा० प० से०) । क्विप् (३.२.१७८) कुल् अर्धस्विन्नो माषोऽस्मिन् । कुल् बन्धुर्माषोऽस्य वा । ‘कूल्माषं स्यात्तु काञ्जिके । कुल्माषोऽर्धस्विन्नधान्ये यवके चणकेऽपि च' इति हेमचन्द्रः ॥