अमरकोशः


श्लोकः

किंशारुः शस्यशूकं स्यात्कणिशं शस्यमञ्जरी । धान्यं व्रीहिः स्तम्बकरि: स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किंशारु किंशारुः पुंलिङ्गः किञ्चित् कुत्सितं वा शृणाति । उण् उणादिः उकारान्तः
2 शस्यशूक शस्यशूकः पुंलिङ्गः, नपुंसकलिङ्गः शस्यस्य शूकम् । तत्पुरुषः समासः अकारान्तः
3 कणिश कणिशः पुंलिङ्गः, नपुंसकलिङ्गः कणयः कणाः सन्त्यस्य । तद्धितः अकारान्तः
4 शस्यमञ्जरी शस्यमञ्जरी स्त्रीलिङ्गः शस्यस्य मञ्जरी ॥ तत्पुरुषः समासः ईकारान्तः
5 धान्य धान्यम् नपुंसकलिङ्गः धाने पोषणे साधुः । यत् तद्धितः अकारान्तः
6 व्रीहि व्रीहिः पुंलिङ्गः व्रीणाति । हिक् तद्धितः इकारान्तः
7 स्तम्बकरि स्तम्बकरिः पुंलिङ्गः स्तम्बं करोति । इन् कृत् इकारान्तः
8 स्तम्ब स्तम्बः पुंलिङ्गः तिष्ठति । अम्बच् उणादिः अकारान्तः
9 गुच्छ गुच्छः पुंलिङ्गः गवनम् । कृत् अकारान्तः