गुच्छः

सुधाव्याख्या

गवनम् । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । ‘सम्पदादिक्विप्’ (वा० ३.३.१०८) । तुक् (६.१.७१) । गुतं छ्यति । ‘छो छेदने (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥


प्रक्रिया

धातुः -


गुङ् शब्दे
गु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गु + क्विप् - वार्तिकम् ।
गु + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गु - वेरपृक्तस्य 6.1.67
गु + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
गु + त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छो छेदने
गुत् + अम् + छो + क - आतोऽनुपसर्गे कः 3.2.3
गुत् + छो + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गुत् + छो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गुत् + छा + अ - आदेच उपदेशेऽशिति 6.1.45
गुत् + छ् + अ - आतो लोप इटि च 6.4.64
गुच्छ - स्तोः श्चुना श्चुः 8.4.40
गुच्छ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गुच्छ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुच्छ + रु - ससजुषो रुः 8.2.66
गुच्छ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुच्छः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D