किंशारुः

सुधाव्याख्या

किमिति । किञ्चित् कुत्सितं वा शृणाति । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । ‘किंजरयोः श्रिणः’ (उ० १.४) इत्युण् । ‘अथ किंशारुर्धान्यशूके शरेऽपि च' इति हैमः ॥