कणिशः

सुधाव्याख्या

केति । कणयः कणाः सन्त्यस्य । लोमादित्वात् (५.२.१००) शः । कणिनं स्वावयवं श्यति वा । ‘शो तनूकरणे (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कणिशो धान्यशीर्षके’ इति तालव्यान्ते रत्नकोषः ॥