अमरकोशः


श्लोकः

गवलं माहिषं शृङ्गमभ्रकं गिरिजामले । स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गवल गवलम् नपुंसकलिङ्गः गवामलम् । अच् कृत् अकारान्तः
2 अभ्रक अभ्रकम् नपुंसकलिङ्गः अभ्रति, अभ्र्यते वा । क्वुन् उणादिः अकारान्तः
3 गिरिज गिरिजम् नपुंसकलिङ्गः गिरौ जातम् । कृत् अकारान्तः
4 अमल अमलम् नपुंसकलिङ्गः न मलमस्य कलच् उणादिः अकारान्तः
5 स्रोतोञ्जन स्रोतोञ्जनम् नपुंसकलिङ्गः अज्यते नयनमनेन । ल्युट् कृत् अकारान्तः
6 सौवीर सौवीरम् नपुंसकलिङ्गः सुवीरे देशे भवम् । अण् तद्धितः अकारान्तः
7 कापोताञ्जन कापोताञ्जनम् नपुंसकलिङ्गः कपोतस्येदम् । अण् तद्धितः अकारान्तः
8 यामुन यामुनम् नपुंसकलिङ्गः यमुनायां भवम् । अण् तद्धितः अकारान्तः