अमलम्

सुधाव्याख्या

अमति । ‘अम गतौ’ (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । न मलमस्य, इति वा । (‘अमलं त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु’ इति मेदिनी) । ‘गिरिजं गिरिजाबीजममलं गवलध्वजम्’ इति वाचस्पतिः ॥


प्रक्रिया

धातुः -


अमँ गतौ
अम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम् + कलच् – उणादि १.१०६
अम् + अल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अमलम्
x000D