स्रोतोऽञ्जनम्

सुधाव्याख्या

स्रविति । अज्यते नयनमनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । करणे ल्युट् (३.३.११७) । स्रोतोजमञ्जनम् । शाकपार्थिवादिः (वा० २.१.७८) ॥


प्रक्रिया

धातुः -


अञ्जूँ व्यक्त्यादौ
अञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्ज् + ल्युट् - करणाधिकरणयोश्च 3.3.117
अञ्ज् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्ज् + अन - युवोरनाकौ 7.1.1
स्रोतोजमञ्जनम्
x000D